Raghavendra Raksha Stotra

img_3265

As the title of the composition itself says, the prayer will protect us from any harm if chanted with all sincerity and devotion.

श्रीराघवॆंद्ररक्षास्तॊत्रम्

श्रीराघवॆंद्रनाम्नैव स्वांगन्यासं तु कारयॆत् ।
तॆनैव धार्ढ्यं दॆहस्य भवत्यॆव न संशयः  ॥१॥

राघवॆंद्रः शिरः पातु फालं पातु यतीश्वरः ।
श्रॊत्रॆ पातु सुरश्रॆष्ठॊ मुखं पातु महायशाः  ॥२॥

नॆत्रॆ पातु गुरुश्रॆष्ठॊ घ्राणं पातु महामनाः ।
गंडॆ पातु गुणांभॊधिः कपॊलॆ कामितप्रदः ॥३॥

ऊर्धॊष्ठं विबुधः पातु ह्यधरॊष्ठं हरिप्रियः ।
दंतालिं दॆशिकः पातु जिह्वां पातु जगद्गुरुः ॥४॥

चुबुकं चतुरः पातु कंठं पातु यतीश्वरः ।
स्कंधॆ पातु सुरश्रॆष्ठॊ भुजौ च सुरवंदितः ॥५॥

बाहू पातु महाप्राज्ञॊ हस्तौ सर्वज्ञसत्तमः ।
हृदयं हरिभक्तस्तु कक्षौ पातु विचक्षणः ॥६॥

कुक्षिं च पातु प्रह्लादॊ नाभिं पातु नरांशकः ।
कटिं सुधींद्रतनयॊ जघनं व्यासमूर्तिमान् ॥७॥

पृष्ठं कृष्णप्रियः पातु गुह्यं गुरुवरस्सदा ।
मॆढ्रं पातु महाधीरॊ वृषणौ धीमतां वरः ।८॥

ऊरू पातु महॊदारः जानुनी जयतां वरः ।
जंघॆ जितॆंद्रियः पातु गुल्फौ कारुण्यसागरः ।९॥

पादौ पापहरः पातु अंगुली पातु भूतिदः ।
सर्वांगं सार्वभौमस्तु पायान्मां पापिनां सदा ।१०॥

ऎवमॆतद्गुरॊर्नाम्ना सर्वांगं रक्षयॆत्सुधीः ।
तस्य रॊगा विनश्यंति संचिता अपि नित्यशः ।११॥

आगामिनॊ रॊगसंघाः नैवायांति कदाचन ।
नश्श्यॆयुस्सर्वपापानि सर्वॆष्टानि भवंति च ॥१२॥

इति श्रीराघवॆंद्रार्यपदपंकजसॆविना ।
स्वामिना रचितं रक्षास्तॊत्रं सर्वार्थसिद्धिदम् ।१३॥

॥इति श्रीगुरुजगन्नाथदासार्यविरचितं श्रीराघवॆंद्ररक्षास्तॊत्रं संपूर्णम्॥

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s